(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.64. अध्यायः 064
Mahabharata - Udyoga Parva - Chapter Topics
विदुरेण शकुनिदृष्टान्तेन ज्ञातिभिर्विरोधस्यानर्थहेतुत्वकथनम् ॥ 1 ॥
तथा किरातदृष्टान्तप्रदर्शनेन अत्याशाया अनर्थहेतुताकथनम् ॥ 2 ॥
तथा युद्धे जयपराजययोरव्यवस्थितत्वाभिधानम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text

विदुर उवाच। 5-64-0x(3589)(34205)
शकुनीनामिहार्थाय पाशं भूमावयोजयत्।
कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम् ॥ 5-64-1(34206)
तस्मिंस्तौ शकुनौ बद्धौ युगपत्सहचारिणौ।
तावुपादाय तं पाशं जग्मतुः खचरावुभौ ॥ 5-64-2(34207)
तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा ।
अन्वधावदनिर्विण्णो येन येन स्म गच्छतः ॥ 5-64-3(34208)
तथा तमनुधावन्तमृगयुं शकुनार्थिनम् ।
आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः ॥ 5-64-4(34209)
तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम्।
श्लोकेनानेन कौरव्य पप्च्छ स मुनिस्तदा ॥ 5-64-5(34210)
विचित्रमिदमाश्चर्यं मृगहन्प्रतिभाति मे।
प्लवमानौ हि खचरौ पदातिरनुधावसि ॥ 5-64-6(34211)
शाकुनिक उवाच। 5-64-7x(3590)
पाशमेकमुभावेतौ सहितौ हरतो मम।
यत्र वै विवदिष्येते तत्र मे वशमेष्यतः ॥ 5-64-7(34212)
विदुर उवाच। 5-64-8x(3591)
तौ विवादमनुप्राप्तौ शकुनौ मृत्युसन्धितौ।
विगृह्य च स्रुदुर्बुद्धी पृथिव्यां संनिपेततुः ॥ 5-64-8(34213)
तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ ।
उपसृत्य प्रमत्तौ तौ जग्राह मृगहा तदा ॥ 5-64-9(34214)
एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम्।
ते मृत्युवशमायान्ति शकुनाविव विग्रहात् ॥ 5-64-10(34215)
संभोजनं संकथनं संप्रश्नोऽथ समागमः ।
एतानि ज्ञातिकार्याणि न विरोधः कदाचन ॥ 5-64-11(34216)
ये स्म काले सुमनसः सर्वे वृद्धानुपासते।
सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते॥ 5-64-12(34217)
येऽर्थं सन्ततमासाद्य दीना इव समासते।
श्रियं ते संप्रयच्छन्ति द्विषद्भ्यो भरतर्षभ ॥ 5-64-13(34218)
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ 5-64-14(34219)
इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया।
श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु ॥ 5-64-15(34220)
वयं किरातैः सहिता गच्छामो गिरिमुत्तरम् ।
ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवार्तिकैः ॥ 5-64-16(34221)
कुञ्चभूतं गिरिं सर्वमभितो गन्धमादनम्।
दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् ॥ 5-64-17(34222)
तत्रापश्याम वै सर्वे मधु पीतकमाक्षिकम्।
मरुप्रपाते विषमे निविष्टं कुम्भसंमितम् ॥ 5-64-18(34223)
आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम्।
यत्प्राप्य पुरुषो मर्त्योऽप्यमरत्वं नियच्छति ॥ 5-64-19(34224)
अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा।
इति ते कथयन्तिस्म ब्राह्मणा जम्भसाधकाः ॥ 5-64-20(34225)
ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपते।
विनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे ॥ 5-64-21(34226)
तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति।
मधु पश्यति संमोहात्प्रपातं नानुपश्यति ॥ 5-64-22(34227)
दुर्योधनो योद्धुमनाः समरे सव्यसाचिना।
न च पश्यामि तेजोस्य विक्रमं वा तथाविधम् ॥ 5-64-23(34228)
एकेन रथमास्थाय पृथिवी येन निर्जिता ।
भीष्मद्रोणप्रभृतयः सन्त्रस्ताः साधुयायिनः ॥ 5-64-24(34229)
विराटनगरे भग्नाः किं तत्र तव दृश्यताम् ।
प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव ॥ 5-64-25(34230)
द्रुपदो मत्स्यराजश्च सङ्कुद्धश्च धनञ्जयः ।
न शेषयेयुः समरे वायुयुक्ता इवाग्नयः ॥ 5-64-26(34231)
अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम्।
युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेञ्जयः ॥ ॥ 5-64-27(34232)

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि चतुःषष्टितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-64-16 विद्याजम्भकवार्तिकाः । विद्या मन्त्रयन्त्रादिरूपा। जम्भक औषधसाधनानि तद्वार्ताप्रियाः ॥ 5-64-17 कुञ्जभूतं सर्वतो लताभिः परिवृतम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.